|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.17. अध्यायः 017
Mahabharata - Drona Parva - Chapter Topics
संशप्तकैराहूतस्यार्जुनस्य युधिष्ठिररक्षणे सत्यजितं नियोज्य तान्प्रति युद्धाय गमनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-17-0x(4299)(45374)
ते सेने शिबिरं गत्वा न्यविशेतां विशाम्पते।
यथाभागं यथान्यायं यथागुल्मं च सर्वशः॥ 7-17-1(45375)
कृत्वाऽवहारं सैन्यानां द्रोणः परमदुर्मनाः।
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्॥ 7-17-2(45376)
उक्तमेतन्मया पूर्वं न तिष्ठति धन्जये।
शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः॥ 7-17-3(45377)
इति तद्वः प्रयततां कृतं पार्थेन संयुगे।
मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ॥ 7-17-4(45378)
अपनीते तु योगेन केनचिच्छ्वेतवाहने।
तत एष्यति ते राजन्वशमेष युधिष्ठिरः॥ 7-17-5(45379)
कश्चिदाहूय तं सङ्ख्ये देशमन्यं प्रकर्षतु।
तमजित्वा न कौन्तेयो निवर्तेत कथञ्चन॥ 7-17-6(45380)
एतस्मिन्नन्तरे शून्येधर्मराजमहं नृप।
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः॥ 7-17-7(45381)
अर्जुनेन परित्यक्तो न चेत्त्रासात्पलायते।
मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम्॥ 7-17-8(45382)
एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम्।
समानेष्यामि सगणं वशमद्य न संशयः॥ 7-17-9(45383)
यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः।
अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते॥ 7-17-10(45384)
सञ्जय उवाच। 7-17-11x(4300)
द्रोणस्य तद्वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा।
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्॥ 7-17-11(45385)
वयं विनिकृता राजन्सदा गाण्डीवधन्वना।
अनागःस्वपि चागस्तत्कृतमस्मासु तेन वै॥ 7-17-12(45386)
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान्।
क्रोधाग्निना दह्यमाना ह्यशेमहि सदा निशि॥ 7-17-13(45387)
स नो दिष्ट्याऽस्त्रसम्पन्नश्चक्षुर्विषयमागतः।
कर्तारः स्मरयं कर्म यच्चिकीर्षाम हृद्गतम्॥ 7-17-14(45388)
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम्।
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः॥ 7-17-15(45389)
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽवा पुनः।
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति॥ 7-17-16(45390)
एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत।
सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च॥ 7-17-17(45391)
सहिता भ्रातरः पञ्च रथानामयुतेन च।
न्यवर्तन्त महाराज कृत्वा शपथमाहवे॥ 7-17-18(45392)
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः।
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः॥ 7-17-19(45393)
मावेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि।
रथानामयुतेनैव सोऽगमद्धातृभिः सह॥ 7-17-20(45394)
नानाजनपदेभ्यश्च रथानामयुतं पुनः।
समुत्थितं विशिष्टानां शपथार्थमुपागमत्॥ 7-17-21(45395)
ततो ज्वलनमानर्च्य हुत्वा सर्वे पृथक्पृथक्।
जगृहुः कुशचीराणि चित्राणि कवचानि च॥ 7-17-22(45396)
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः।
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः॥ 7-17-23(45397)
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः।
योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च॥ 7-17-24(45398)
ब्रह्मचर्युश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः।
प्राप्याँल्लोकान्सुयुद्धेन क्षिप्रमेव यियासवः॥ 7-17-25(45399)
ब्राह्ममांस्तर्पयित्वा च निष्कान्दत्वा पृथक्पृथक्।
गाश्च वासांसि च पुनः समाभाष्य परस्परम्॥ 7-17-26(45400)
`द्विजमुख्यैः समुदितैः कृतस्वस्त्ययनाशिषः।
मुदिताश्च प्रहृष्टाश्च जलं संस्पृश्य निर्मलम्'॥ 7-17-27(45401)
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम्।
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः॥ 7-17-28(45402)
शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे।
सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे। 7-17-29(45403)
ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम्।
मद्यपस्य च ये लोका गुरुदाररतस्य च॥ 7-17-30(45404)
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः।
शरणागतं च त्यजतो याचमानं तथा घ्नतः॥ 7-17-31(45405)
अगारदाहिनां चैव ये च गां निघ्नतामपि।
अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि॥ 7-17-32(45406)
स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम्।
श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम्॥ 7-17-33(45407)
न्यासापहारिणां ये च श्रुतं नाशयतां च ये।
क्लीबने युध्यमानानां ये च नीचानुसारिणाम्॥ 7-17-34(45408)
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम्।
तानाप्नुयामहे लोकान्ये च पापकृतामपि॥ 7-17-35(45409)
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम्।
तेन चाभ्यर्दितास्त्रासाद्भवेमहि पराङ्मुखाः॥ 7-17-36(45410)
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे।
इष्टाँल्लोकान्प्राप्नुयामो वयमद्य न संशयः॥ 7-17-37(45411)
एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे।
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति॥ 7-17-38(45412)
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्चयः।
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्॥ 7-17-39(45413)
आहूतो न निवर्तेयमिति मे व्रतमाहितम्।
संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे॥ 7-17-40(45414)
एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे।
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि॥ 7-17-41(45415)
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ।
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि॥ 7-17-42(45416)
युधिष्ठिर उवाच। 7-17-42x(4301)
श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम्।
यथा तदनृतं तस्य भवेतत्त्वं समाचर॥ 7-17-43(45417)
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः।
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ॥ 7-17-44(45418)
अर्जुन उवाच। 7-17-45x(4302)
अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि।
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति॥ 7-17-45(45419)
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो।
सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन॥ 7-17-46(45420)
सञ्जय उवाच। 7-17-47x(4303)
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः।
प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः॥ 7-17-47(45421)
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली।
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव॥ 7-17-48(45422)
ततो दौर्योधनं सैन्यं मुदा परमया युतम्।
ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे॥ 7-17-49(45423)
ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा।
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके॥ ॥ 7-17-50(45424)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-17-5 योगेन उपायेन॥ 5-17-24 लोक्याः पुण्यलोकार्हाः॥ 5-17-25 ब्रह्मचर्यं वेदव्रताचरणम्। श्रुतिर्वेदाध्ययनं ते एव मुखं प्रधानं येषु तैः। कर्मभिरिति शेषः॥ 5-17-33 आत्मापहारिणां स्वजातिगोपकानाम्॥ 5-17-34 श्रुतं प्रतिज्ञातम्॥ 5-17-39 अपदान्तरमव्यवहितम्॥ 5-17-17 सप्तदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|